Sunday, July 18, 2010

श्री गुरु स्तोत्रम्

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥ १ ॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥ २ ॥

गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परम् ब्रह्म तस्मै श्री गुरवे नमः ॥ ३ ॥

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥ ४ ॥

चिन्मयं व्यापियत् सर्वं त्रैलोक्यं सचराचरं
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः

सर्वश्रुति शिरोरत्न विराजित पदांबुजः
वेदान्ताम् बुज सूर्यो यः तस्मै श्री गुरवे नमः

ज्ञानशक्ति समारूढः तत्वमाला विभूषितः
भुक्तिमुक्ति प्रदाता तस्मै श्री गुरवे नमः

अनेकजन्मसंप्राप्त कर्मबन्ध विदहिने
आत्मज्ञान प्रदानेन तस्मै श्री गुरवे नमः

शोषणं भवषिधोश्च ज्ञापनं सारसंपदः
गुरोः पादोदकं सम्यक् तस्मै श्री गुरवे नमः १०

गुरोरधिकं तत्वं गुरोरधिकं तपः
तत्वज्ञानात् परम् नास्ति तस्मै श्री गुरवे नमः ११

मन्नाथः श्री जगन्नाथः मद्गुरुः श्री जगद्गुरुः
मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः १२

गुरुरादिरनादिश्च गुरुः परम दैवतं
गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः १३

ब्रह्मानन्दं परम सुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगन सदृशं तत्वमस्यादि लक्ष्यं
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि १४

त्वमेव माता पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव १५

अजं निर्विकल्पं

अजं निर्विकल्पं निराकारमेकं
निरानन्दमानन्दम् अद्वैतपूर्णम्
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥ १ ॥

गुणातीतमानं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाश रूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥ २ ॥

जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं गुणेशं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥ ३ ॥

श्री गणेश पञ्चरत्नं

मुदा-करात्तमोदकं सदा विमुक्ति-साधकं
कलाधरावतंसकं विलासि-लोक-रक्षकं ।
अनायकैक-नायकं विनाशितेभ-दैत्यकं
नताशु-भाशु-नाशकं नमामि तं विनायकं ॥ १ ॥

नतेतराति-भीकरं नवोदितार्क-भास्वरं
नमत्सुरारि-निर्जरं नताधि-काप-दुध्दरं ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरं ॥ २ ॥

समस्तलोक-शङ्करं निरस्त-दैत्य-कुञ्जरं
दरे-तरो-दरं वरं वरभवक्त्र-मक्षरं ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरं ॥ ३ ॥

अकिञ्चनार्ति-मार्जनं चिरन्तनोक्ति-भाजनं
पुरारि-पूर्व-नन्दनं सुरारि-गर्व-चर्वणम् ।
प्रपञ्च-नाश-भीषणं धनञ्जयादि-भूषणं
कपोल-दान-वारणं भजे पुराण-वारणम् ॥ ४ ॥

नितान्त-कान्त दन्त-कान्ति मन्त-कान्त-कात्मजम्
अचिन्त्य-रूप मन्तहीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥

महागणेश-पञ्चरत्न-मादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन्-गणेश्वरम्
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायु-रष्टभूति-मभ्युपैति सोऽसिरात् ॥ ६ ॥