तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥ १ ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥ २ ॥
गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परम् ब्रह्म तस्मै श्री गुरवे नमः ॥ ३ ॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥ ४ ॥
चिन्मयं व्यापियत् सर्वं त्रैलोक्यं सचराचरं ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥ ६ ॥
सर्वश्रुति शिरोरत्न विराजित पदांबुजः ।
वेदान्ताम् बुज सूर्यो यः तस्मै श्री गुरवे नमः ॥ ७ ॥
ज्ञानशक्ति समारूढः तत्वमाला विभूषितः ।
भुक्तिमुक्ति प्रदाता च तस्मै श्री गुरवे नमः ॥ ८ ॥
अनेकजन्मसंप्राप्त कर्मबन्ध विदहिने ।
आत्मज्ञान प्रदानेन तस्मै श्री गुरवे नमः ॥ ९ ॥
शोषणं भवषिधोश्च ज्ञापनं सारसंपदः ।
गुरोः पादोदकं सम्यक् तस्मै श्री गुरवे नमः ॥ १० ॥
न गुरोरधिकं तत्वं न गुरोरधिकं तपः ।
तत्वज्ञानात् परम् नास्ति तस्मै श्री गुरवे नमः ॥ ११ ॥
मन्नाथः श्री जगन्नाथः मद्गुरुः श्री जगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः ॥ १२ ॥
गुरुरादिरनादिश्च गुरुः परम दैवतं ।
गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः ॥ १३ ॥
ब्रह्मानन्दं परम सुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगन सदृशं तत्वमस्यादि लक्ष्यं ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४ ॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ १५ ॥