Sunday, July 18, 2010

श्री गणेश पञ्चरत्नं

मुदा-करात्तमोदकं सदा विमुक्ति-साधकं
कलाधरावतंसकं विलासि-लोक-रक्षकं ।
अनायकैक-नायकं विनाशितेभ-दैत्यकं
नताशु-भाशु-नाशकं नमामि तं विनायकं ॥ १ ॥

नतेतराति-भीकरं नवोदितार्क-भास्वरं
नमत्सुरारि-निर्जरं नताधि-काप-दुध्दरं ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरं ॥ २ ॥

समस्तलोक-शङ्करं निरस्त-दैत्य-कुञ्जरं
दरे-तरो-दरं वरं वरभवक्त्र-मक्षरं ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरं ॥ ३ ॥

अकिञ्चनार्ति-मार्जनं चिरन्तनोक्ति-भाजनं
पुरारि-पूर्व-नन्दनं सुरारि-गर्व-चर्वणम् ।
प्रपञ्च-नाश-भीषणं धनञ्जयादि-भूषणं
कपोल-दान-वारणं भजे पुराण-वारणम् ॥ ४ ॥

नितान्त-कान्त दन्त-कान्ति मन्त-कान्त-कात्मजम्
अचिन्त्य-रूप मन्तहीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥

महागणेश-पञ्चरत्न-मादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन्-गणेश्वरम्
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायु-रष्टभूति-मभ्युपैति सोऽसिरात् ॥ ६ ॥

No comments:

Post a Comment