Sunday, July 18, 2010

अजं निर्विकल्पं

अजं निर्विकल्पं निराकारमेकं
निरानन्दमानन्दम् अद्वैतपूर्णम्
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥ १ ॥

गुणातीतमानं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाश रूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥ २ ॥

जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं गुणेशं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥ ३ ॥

No comments:

Post a Comment